मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०७, ऋक् ३

संहिता

तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

तत् । नः॒ । इन्द्रः॑ । तत् । वरु॑णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननापु । तत्तादृशं चनोऽन्नं नोऽस्मभ्यमिंद्रो धात् । दधातु । ददातु । एवं तद्वरुण इत्यादावपि योज्यम् । तदिदमिंद्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयो ममहंताम् । पूजयंतु । पालयंत्वित्यर्थः ॥ चनः । चायृ पूजानिशामनयोः । चायेरन्ने ह्रस्वश्च । उ ४-१९९ इत्यसुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः । नित्त्वादाद्युदात्तत्वम् । धात् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङ् । गातिस्थेति सिचो लुक् ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५