मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् ३

संहिता

च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थ॑ः ।
तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्ण॒ः सोम॑स्य वृष॒णा वृ॑षेथाम् ॥

पदपाठः

च॒क्राथे॒ इति॑ । हि । स॒ध्र्य॑क् । नाम॑ । भ॒द्रम् । स॒ध्री॒ची॒ना । वृ॒त्र॒ऽह॒नौ॒ । उ॒त । स्थः॒ ।
तौ । इ॒न्द्रा॒ग्नी॒ इति॑ । स॒ध्र्य॑ञ्चा । नि॒ऽसद्य॑ । वृष्णः॑ । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् ॥

सायणभाष्यम्

हे इंद्राग्नी भद्रं कल्याणं नाम स्वकीयं नामधेयं सध्र्यक् सहगतमिंद्राग्नी इत्येवं संयुक्तं चक्राथे । युवां कृतवंतौ । उतापि च हे वृत्रहणौ वृत्रस्यासुरस्य हंताराविंद्राग्नि सध्रीचीना सहांचंतौ वृत्रवधार्थं संगतौ स्थः । भवथः । हि यस्मादेवं तस्माद्धे वृषणा कामानां वर्षिताराविंद्राग्नी तौ युवां सध्र्यंचौ सहितावेव संतौ निषद्य वेद्यामुपविश्य वृष्णः सेक्तुः सोमस्यात्मीयं भागमा वृषेथाम् । स्वकीय उदरे आसिंचेथां ॥ सध्र्यक् । सहशब्दोपपदादंचतेर्यत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । सहस्य सध्रिः । अद्रिसध्र्योरंतोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनात्सध्र्यादेशोऽंतोदात्तः । यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । सध्रीचीना । विभाषांचेरदिक् स्त्रियामिति स्वार्थे खः । सुपां सुलुगित विभक्तेराजादेशः । वृत्रहणौ । संहितायामावादेशे लोपः शाकल्यस्येति वलोपः । वृषेथाम् । वृष सेचने । व्यत्ययेन श आत्मनेपदं च ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६