मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ३

संहिता

मा च्छे॑द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः ।
इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री॑ धि॒षणा॑या उ॒पस्थे॑ ॥

पदपाठः

मा । छे॒द्म॒ । र॒श्मीन् । इति॑ । नाध॑मानाः । पि॒तॄ॒णाम् । श॒क्तीः । अ॒नु॒ऽयच्छ॑मानाः ।
इ॒न्द्रा॒ग्निऽभ्या॑म् । कम् । वृष॑णः । म॒द॒न्ति॒ । ता । हि । अद्री॒ इति॑ । धि॒षणा॑याः । उ॒पऽस्थे॑ ॥

सायणभाष्यम्

रश्मीन् । रश्मिशब्दो रज्जुवाची । यथा रश्मयो दीर्घा अविच्छिन्ना भवंति । एवमविच्छिन्नान्पुत्रपौत्रादीन् मा छेद्म मा विच्छिन्नान्कुर्मेति बुद्द्या नाधमाना इंद्राग्न्योः सकाशात्तथाविधान्पुत्रादीन्याचमानाः । तदनंतरं पितृणां शक्तीः शक्त्युत्पादकान्वीर्योत्पादकांस्तान्पुत्रादीननुयच्छमाना अनुक्रमेण नियतान् कुर्वंतो वृषणः सेक्तारः पुत्रोत्पादनसमर्थाः । सपत्नीका इत्यर्थः । एवंभूता यजमाना इंद्राग्निभ्यां कं सुखं यथा भवति तथा मदंति । स्तुवंति । हि यस्मादद्री शत्रूनादृणंतौ हिंसंतौ विदारयंतौ ताविंद्राग्नी धिषणायाः स्तुत्या उपस्थ उपस्थाने समीपे भवतः । तस्मात्तत्सान्विध्याय स्तुवंतीति भावः । यद्वा निपातानामनेकार्थत्वात् हिशब्दो यदेत्यर्थः । यदा ताविंद्राग्नी उद्दिश्याद्री अभिषवसाधनभूता ग्रावाणो धिषणाया उपस्थे । धिषणाधिषवण चर्म । तस्योपरिष्ठादिंद्राग्न्यर्थं सोममभिषुण्वंति । तदा तदा यजमाना स्तुवंतीति योजनीयं ॥ छेद्म । छिदिर् द्वैधीकरणे । लङि बहुलं छंदसीति विकरणस्य लुक् । छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाल्लघूपधगुणः । न माङ्योग इत्यडभावः । रश्मीन् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेतीकारः सानुनासिकः । नाधमानाः । णादृ याज्ञायाम् । पितृणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मदंति । मदि स्तुतौ । आगमानुशासनस्यानित्यत्वान्नुमभावः । व्यत्ययेन परस्मैपदं ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८