मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ५

संहिता

यु॒वामि॑न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये॑ ।
तावा॒सद्या॑ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ॥

पदपाठः

यु॒वाम् । इ॒न्द्रा॒ग्नी॒ इति॑ । वसु॑नः । वि॒ऽभा॒गे । त॒वःऽत॑मा । शु॒श्र॒व॒ । वृ॒त्र॒ऽहत्ये॑ ।
तौ । आ॒ऽसद्य॑ । ब॒र्हिषि॑ । य॒ज्ञे । अ॒स्मिन् । प्र । च॒र्ष॒णी॒ इति॑ । मा॒द॒ये॒था॒म् । सु॒तस्य॑ ॥

सायणभाष्यम्

हे इंद्राग्नी वसुनो धनस्य विभागे स्तोतृभ्यो दातुं विभजने तात्पर्येण वर्तमानौ युवां वृत्रहत्ये वृत्रस्यासुरस्य हनने तवस्तमातिशयेन बलिनौ प्रवृद्थतमौ वा शुश्रव । अश्रौषम् । हे चर्षणी सर्वस्य द्रष्टाराविंद्राग्नी तौयुवामस्मदीयेऽस्मिन्यज्ञे बर्हिषि वेद्यामास्तीर्णे दर्भ आसद्योपविश्य सुतस्याभिषुतस्य सोमस्य पानेन प्रमायेथाम् । प्रकर्षेण तृप्तौ भवतं ॥ विभागे । भज सेवायाम् । भावे घञ् । चचोः कु घिण्ण्यतोरिति कुत्वम् । थाथादिनोत्तरपदांतोदा त्तत्वम् । तवस्तमा । तव इति बलनाम । लुप्तमत्वर्थीयादेतस्मादातिशायनिकस्तमप् । यद्वा । तवतिर्वृद्ध्यर्थः । सौत्रो धातुः । तस्मादौणादिकः कर्तर्यसिप्रत्ययः । सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । वृत्रहत्ये । हनस्त चेति हंतेर्भावे क्यप् । तत्सन्नियोगेन तकारांतादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८