मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ६

संहिता

प्र च॑र्ष॒णिभ्य॑ः पृतना॒हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ ।
प्र सिन्धु॑भ्य॒ः प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ॥

पदपाठः

प्र । च॒र्ष॒णिऽभ्यः॑ । पृ॒त॒ना॒ऽहवे॑षु । प्र । पृ॒थि॒व्याः । रि॒रि॒चा॒थे॒ इति॑ । दि॒वः । च॒ ।
प्र । सिन्धु॑ऽभ्यः । प्र । गि॒रिऽभ्यः॑ । म॒हि॒ऽत्वा । प्र । इ॒न्द्रा॒ग्नी॒ इति॑ । विश्वा॑ । भुव॑ना । अति॑ । अ॒न्या ॥

सायणभाष्यम्

ऐंद्राग्नस्य पशोर्हविषः प्र चर्षणिभ्य इत्येषा याज्या । प्रदानानामिति खंडे सूत्रितम् । प्र चर्षणिभ्यः पृतनाहवेष्टा देवो यातु सविता सुरत्नः (आ ३-७) इति ॥

पृतनाहवेषु पृतनासु संग्रामेषु रक्षणार्थमाह्वानेषु सत्सु हे इंद्राग्नी आगतवंतौ युवां चर्षणिभ्यः सर्वेभ्योऽपि मनुष्येभ्यो महित्वा महत्त्वेन प्र रिरिचाथे । अतिरिच्येथे । सर्वाधिकौ भवथ इत्यर्थः । अत्रोपसर्गवशाद्धातुः स्वाभिधेयविपरीतमर्थमाचष्टे यथा प्रस्मरणं प्रस्थानमिति । तथा पृथिद्याः सर्वस्या भूमेश्च प्ररिरिचाथे । एवं द्युप्रभृतिभ्योऽपि । सिंधवः संद्यनशीला आपः । गिरयः पर्वताः । अपि च हे इंद्राग्नी विश्वा भुवना सर्वाणि भूतजातान्यन्योक्तव्यतिरिक्तानि यानि संति तान्यतीत्य प्ररिरिचाथे । अधिकौ भवथः ॥ पृतनाहवेषु । पृतनासु हवः पृतनाहवः । ह्वेञो भावेऽनुपसर्गस्येत्यप् । संप्रसारणं च । व्यत्ययेन थाथादिस्वराभावे कृदुत्तरपदप्रकृतिस्वरत्वम् । रिरिचाथे । रिचिर् विरेचने । छंदसि लुङ् लिङ् लिट इति वर्तमाने लिट् । यद्वा । लट्येव बहुलं छंदसीति विकरणस्य श्लुः । महित्वा । मह पूजायाम् । औणादिक इन्प्रत्ययः । तस्य भावो महित्वम् । सुपां सुलुगिति तृतीयायाडादेशः ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९