मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०९, ऋक् ८

संहिता

पुरं॑दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ॑न्द्राग्नी अवतं॒ भरे॑षु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

पुर॑म्ऽदरा । शिक्ष॑तम् । व॒ज्र॒ऽह॒स्ता॒ । अ॒स्मान् । इ॒न्द्रा॒ग्नी॒ इति॑ । अ॒व॒त॒म् । भरे॑षु ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे वज्रहस्ता हस्तेन गृहीतवज्रौ । पुरंदरासुरपुराणां दारयिताराविंद्राग्नी शिक्षतम् । अस्मदपेक्षितं धनं प्रयच्छतम् । अपि च भरेषु संग्रामेष्वस्मानवतम् । रक्षतम् । यदनेन सूक्तेन प्रार्थितं तदस्मदीयं मित्रादयो ममहंताम् । पूजयंतां ॥ पुरंदरा । पूःसर्वयोर्दारिसहोः (पा ३-२-४१) इति खच् । वाचंयमपुरंदरौ च (पा ६-३-६९) इति निपातनादम् । सुपां सुलुगिति विभक्तेराकारः ॥ ८ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९