मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११०, ऋक् ८

संहिता

निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ ।
सौध॑न्वनासः स्वप॒स्यया॑ नरो॒ जिव्री॒ युवा॑ना पि॒तरा॑कृणोतन ॥

पदपाठः

निः । चर्म॑णः । ऋ॒भ॒वः॒ । गाम् । अ॒पिं॒श॒त॒ । सम् । व॒त्सेन॑ । अ॒सृ॒ज॒त॒ । मा॒तर॑म् । पुन॒रिति॑ ।
सौध॑न्वनासः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ । जिव्री॒ इति॑ । युवा॑ना । पि॒तरा॑ । अ॒कृ॒णो॒त॒न॒ ॥

सायणभाष्यम्

पुरा कस्यचिदृषेर्धेनुर्मृता । स ऋषिस्तस्या धेनोर्वत्सं दृष्ट्वा ऋभुं तुष्टाव । ऋभवसत्सदृशीमन्यां धेनुं कृत्वा तदीयेन चर्मणा संवीय तेन वत्सेन समयोजयन्निति । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे ऋभवो यूयं चर्मणश्चर्मणा त्वचा । तृतीयार्थे षष्ठी । गां धेनुं निरपिंशत । निश्शेषेणाश्लिष्टां संयुक्तामकुरुत । तदनंतरं मातरं तां गां पुनर्वत्सेन समसृजत । संसृष्टामकुरुत । समगमयतेति यावत् । अपि च हे सौधन्वनासः सुधन्वन अंगिरसस्य पुत्रा नरो यज्ञस्य नेतार ऋभवः स्वपस्यया शोभनकर्मेच्छया । यागदानाद्याचरणेनेति यावत् । जिव्री जीर्णौ वृद्धौ पितरा मातापितरौ युवाना पुनर्यौवनोपेतावकृणोतन । यूयमकृढ्वं ॥ अपिंशत । पिश अवयवे । तौदादिकः । शे मुचादीनामिति नुम् । सौधन्वनासः । सुधन्वनः पुत्राः सौधन्वनाः । अन् (पा ६-४-१६७) इति प्रकृतिभावः । आज्जसेरसुक् । आमंत्रितस्य चेत्याद्युदात्तत्वम् । स्वपस्यया । शोभनमपः स्वपः । तदिच्छा स्वपस्या । सुप आत्मनः क्यच् । अ प्रत्ययादिति भावेऽकारलप्रत्ययः । जिव्री । जॄष् वयोहानौ । जॄशॄस्तॄजागृभ्यः क्वि न् (उ ४-५४) ऋूत इद्धातोरितीत्वम् । रेफवकारयोः स्थानविपर्ययः । बहुलवचनाद्धलि चेति दीर्घाभावः । नित्त्वादाद्युदात्तत्वम् । युवाना । सुपां सुलुगिति विभक्तेराकारः । पितरा । पितौ च माता च पितरौ । पिता मात्रा (पा १-२-७०) इति पिता शिष्यते । पूर्ववद्विभक्तेराकारः । अकृणोतन । कृवि हिंसाकरणयोश्च । इदित्त्वान्नुम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः तत्सन्नियोगेन वकारस्य चाकारः । अतो लोपे सति तस्य स्धानिवद्भावाल्लघूपधगुणाभावः । लङ् मध्यमबहुवचनस्य तशब्दस्य तप्तनप्तनथनाश्चेति तनबादेशः । तस्य पित्त्वेन ङित्त्वाभावाद्गुणः ॥ ८ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१