मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १

संहिता

ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ ।
याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

ईळ इति पंचविंशत्यृचं सप्तमं सूक्तम् । आंगिरसस्य कुत्सस्यार्षं चतुर्विंशीपंचविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेय । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रांतम् । ईळे पंचाधिकाश्विनमाद्यौ पादौ लिंगोक्तदेवतावंत्ये त्रिष्टुभाविति ॥ प्रवर्ग्येऽभिष्टवेऽप्येतत्सूक्तम् । सूत्रितं च । ग्रावाणेवेळे द्यावापृथिवी इति (आ ४-६) इति ॥ प्रातरनुवाके चाश्वने क्रतौ जागते छंदस्येतत्सूक्तम् । सूत्रितं च । अगन्ममहातारिष्मेळे द्यावापृथिवी इति जागतम् (आ ४-१५) इति ॥ आश्विनशस्त्रेऽप्येतत् प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदेशात् । तथाप्तोर्यामे संति चत्वार्यतिरिक्तोक्थानि । तत्राच्छावाकातिरिक्तोक्थ एतत्सूक्तं यस्य पशव इति खंडे सूत्रितम् । ईळे द्यावापृथिवी उभा उ नूनम् । आ । ९-११ । इति ॥

अहं द्यावापृथिवी द्यावापृथिव्यावीळे । स्तौमि । किमर्थम् । पूर्वचित्तये । पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनौ प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तयेऽन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तम् । तत्कावश्विनौ द्यावापृथिव्यावित्येके । नि १२-१ । इति । अपि च यामन् । यामन्यश्विनोरागमने सतीष्टये तदीययागार्थमाहवनीयरूपेण स्थापितमग्निं स्तौमीति शेषः । कीदृशमग्निम् । घर्मं प्रवृंजनेन दीप्तं सुरुचं अत एव शोभनकांतियुक्तम् । हे अश्विनौ भरे । संग्रामनामैतत् । संग्रामेंऽशाय युष्मदीयभागाय जयप्राप्त्यर्थं याभिरूतिभिः पालनैः सहागत्य कारम् । कारशब्दः शंखवाचीत्यभियुक्ताः संगिरंते । तेन ह्यभियुक्ताः संगिरंते । कारं शब्दकारिणं शंखं जिन्वथः मुखेनापूरयथः । ताभिस्तादृशैरूतिभिः पालनैः सह । उ इति समुच्चये । अस्मानपि सुष्ठ्वा गतम् । आगच्छतं ॥ ईळे । ईड स्तुतौ । उत्तमैकवचनमिट् । अदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । दावापृथिवी । द्यौश्च पृथिवी च । दिवो द्यावेति द्यावादेश आद्युदात्तोनिपातितः । पृथिवी शब्दो ङीषंतोऽन्तोदात्तः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । आपृथिवीति पर्युदासान्नोत्तरपदेऽनुदात्तादाविति निषेधाभावः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । चती संज्ञाने । अस्मादंतर्भावितण्यर्थाद्भावे क्तिन् । मरद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । सुरुचम् । रुच दीप्तावभिप्रीत्यां च । संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । नञ्सुसुभ्यामित्युत्तरपदांतोदात्तत्वम् । यामन् । या प्रापणे । आतो मनिन्निति कृत्यल्युटो बहुलमिति बहुलवचनाद्भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । कर्षात्वत इत्यंतोदात्तत्वम् । जिन्वथः । जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वान्नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङोऽदुपदेशाल्लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यत इत्युक्तम् । का ८-१-६६ । ऊ षु । इकः सुञीति दीर्घत्वम् । सुञ इति षत्वम् । ईषाअक्षादित्वात्सुञ उकारस्य प्रकृतिभावः । ऊतिभिः अवतेर्भावे क्तिन् । ज्वरत्वरेत्यादिना वकारस्योपधायाश्च ऊट् । ऊतियूतीत्यादिना निपातनात् क्तिन् उदात्तत्वम् । गतम् । गमेर्लोट बहुलं छंदसीति विकरणस्य लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३