मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ३

संहिता

यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।
याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ ।
याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्यामृतस्य सोमस्य पानेनोत्पन्नेन मज्जना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तंते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे । समर्थौ भवथः । यद्वा । मज्मनान्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः । ईश्वरौ भवथः । अपि च याभिरूतिभी रक्षाभिरस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिंचथः । पयसा पूरितवंतावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् । षूङ् प्राणिगर्भविमोचने । सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूर्यस्यामित्यसूः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अमि ओः सुपीति यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरि तत्वम् । पिन्वथः । पिवि सेचने । इदित्त्वान्नुम् । भौवादिकः ॥ ३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३