मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ५

संहिता

याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
याभि॒ः कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।
याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ याभिरूतिभी रेभमेतत्संज्ञमृषिं निवृतमसुरैः कूपेऽप्सु निवारितं सितं तदीयैः पाशैर्बद्दमेवंभूतवृषिमद्भ्यः सकाशादुदैरयतं उदगमयतम् । तथा वंदनमेतत्संज्ञमृषिं च तथा भूतमुदैरयतम् । किमर्थ । स्वरादित्यं दृशे द्रष्टुम् । अपि च कण्वमसुरैरंधकारे प्रक्षिप्तं सिषासंतमालोकं संभक्तुमिच्छंतं याभिरूतिभिः प्रावतं प्रकर्षेणारक्षतम् । ताभिरित्यादि समानं ॥ रेभम् । रेभृ शब्दे । रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरुणे । अस्मादंतर्भावितण्यर्थात्कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सितम् । षिञ् बंधने । अद्भ्यः ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । वंदनम् । वदि अभिवादनस्तुत्योः वंदते । स्तौतीति वंदनः । नंद्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन । स्वरादित्यो भवति सु अरणः सु ईरणः । दि २-१४ । इति । स्वरादिनिपातम् (पा १-१-३७) इत्यव्ययत्वात्सुपो लुक् । दृशे । दृशे विख्ये चेति दृशेस्तुमर्थे केप्रत्ययांतो निपात्यते । सिषासंतम् । वन षण संभक्तौ । सनि सनीवंतर्धेत्यादिना विकल्पनादिडभावः । जनसनखनां सन्झलोरित्यात्वम् । द्विर्भावेऽभ्यासस्य ह्रस्वत्यम् । सन्यत इतीत्वं ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३