मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ६

संहिता

याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथु॑ः ।
याभि॑ः क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ ।
याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

आरणमगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानमंतकं शत्रूणामंतकरमेतत्संज्ञं राजर्षिं हे अश्विनौ याभिरूतिभिरवथः रक्षथः । तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिरूतिभी रक्षणहेतुभूताभिरव्यथिभिर्व्यथारहिताभिर्नौभिर्जिजिन्वथुः । युवामतर्पयतम् । एतच्च मंत्रांतरे । तुग्रो ह भुज्युमश्विनोदमेघे । ऋ १-११६-३ । इत्यादिके विस्पष्टयिष्यते । अपि च कर्कंधुं वय्यं चैतत्संज्ञकौ चासुरैः पीड्यमानौ याभिरूतिभिर्जिन्वर्थः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जस हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ् पूर्वादर्तेर्ल्युट् । जिजिन्वथुः । जिविः प्रीणनार्थः । लिट्यथुसि रूपं ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४