मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ९

संहिता

याभि॒ः सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् ।
याभि॒ः कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् ।
याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ सिंधु स्यंदनशीलां नदीं मधुमंतं मधुसदृशेनोदकेन पूर्णां याभिरूतिभिरसश्चतं अगमयतम् । प्रावाहयतमित्यर्थः । हे अजरौ जरारहितावश्विनौ वसिष्ठमृषिं याभिरूतिभिरजिन्वतम् । अप्रीणयतम् । याभिश्च कुत्सादींस्त्रीनृषीनावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिरस्मानपि सुष्ठ्वागच्छतं ॥ मधुमंतम् । मधुशब्दाद्भूम्नि मतुप् । लिंगव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मादंतर्भावित ण्यर्थाल्लुङ् ॥ ९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४