मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् ११

संहिता

याभि॑ः सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।
क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् ।
क॒क्षीव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

उशिक् संज्ञा दीर्घतमसः पत्नी । तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्ट्यां जीवनार्थमकरोद्वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ चाश्विनौ मेघं प्रेरितवंतौ । अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ । औशिजायोशिक् पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवस एतत्संज्ञाय ऋषये याभिर्युष्मदीयाभिरूतिभिर्हेतुभूताभिः कोशो मेघो मधु माधुर्योपेतं वृष्टिजलमक्षरत् असिंचत् । युष्मत्प्रसादादपेक्षिता वृष्टि र्जातेत्यर्थः । अपि चोशिजः पुत्रं स्तोतारं कक्षीवंतमेतत्संज्ञमृषिं याभिरूतिभिरावतम् । अक्षरतं ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ कक्षीवंतम् । कक्ष्यारज्जुरश्वस्य तया युक्तः कक्षीवान् । आसंदीवदष्ठीवच्चक्रीवत्कक्षीवदिति निपातनान्मतुपो वत्वम् । संप्रसारणं ॥ ११ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५