मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १४

संहिता

याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् ।
याभि॑ः पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् ।
याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ महां महांतमतिथिग्वमतिथिग्वमतिथिभिर्गंतव्यं कशोजुवमसुरभीत्योदकं प्रवेष्टुं गंतारं एवंभूतं दिवोदासमेतत्संज्ञकं राजर्षिं शंबरहत्ये । शंब आआयुधम् । तद्युक्तः शंबरोऽसुरः । तस्य हनने विषयभूते सति याभिरूतिभिरावतं अरक्षतम् । अपि च याभिरूतिभिः पूर्भिद्ये । पुराणि नगराणि भिद्यंतेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् त्रसदस्युमेतत्संज्ञकमृषिं पुरुकुत्सपुत्रमावतं अरक्षतम् । ताभिरित्यादिपूर्ववत् ॥ महाम् । महांतमित्यस्य छांदसो वर्णलोपः । कशोजुवम् । कश इत्युदकनाम । कश गतिशातनयोः । असुन् । कशांस्युदकानि जवतीति कशोजूः । जु इति सौत्रो धातुर्गत्यर्थः । क्विब्वचीत्यादिना (उ २-५७) क्विब्दीर्घौ । दिवोदासम् । दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः का । ६-३-२१-५ । इत्यलुक् । दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इति पूर्वपदाद्युदात्तत्वम् । शंबरहत्ये । हनस्त चेति हंतेर्भावे क्यप् । तत्सन्नि योगेन तकारांतादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५