मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् १५

संहिता

याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।
याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबंतं याभिरूतिभिररक्षतम् । कीदृशम् । उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा वित्तजानिं लब्धभार्यं कलिमेतत्संज्ञमृषिं याभिरूतिभिर्दुवस्यथः रक्षथः । उतापि च व्यश्वं विगताश्वं पृथिमेतत्संज्ञं वैनं राजर्षिं याभिरूतिभिरावतं अरक्षतम् । अन्यत्पूर्ववत् ॥ विपिपानम् । पा पाने । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । उपस्तुतम् । स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदांतोदात्तत्वम् (पा ६-२-१४७) वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । जायाया निङ् (पा ५-४-१३४) इति समासांतो निङादेशः । लोपो व्योर्वलीति वलि लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्व उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वं ॥ १५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५