मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २१

संहिता

याभि॑ः कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् ।
मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् ।
मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

स्वानादिषु सोमपालेषु मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकम् । हस्त सुहस्त कृशानवेते वः सोमक्रयाणाः । तै सं १-२-७ । इति । तं कृशानुमसने । इषवोऽस्यंतेऽस्मिन्नित्यसनः संग्रामः । तस्मिन्संग्रामे हे अश्विनौ याभिरूतिभिर्दुवस्यथः । रक्षथः । तथा याभिश्च जवे वेगे प्रवृत्तं यूनस्तरुणस्य पुरुकुत्सस्यार्वंतमश्वमावतं अरक्षतम् । अपि च यन्मधु क्षौद्रं प्रियं सर्वेषामनुकूलवेद्यं तत्सरड् भ्यो मधुमक्षिकाभ्यो याभिश्चोतिभिर्भरथः । संपादयथः ताभिः सर्वाभिरूतिभिः सहास्मानप्यागच्छतं ॥ असने । असु क्षेपणे । करणाधिकरणयो श्चेत्यधिकरणे ल्युट् । सरड् भ्यः । सृ गतौ । सर्तेरटः ॥ २१ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७