मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २२

संहिता

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।
याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः ।
याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे अश्विनौ गोषु युधं गोविषयं युद्धं कुर्वंतं नरं यज्ञस्य नेतारं यजमानं याभिरूतिभिर्नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः । रक्षथ इत्यर्थः । तथा क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । तनयस्य धनस्य च साता सातये संभजनार्थं याभिरूतिभिर्यजमानं रक्षथः । याभिश्च यजमानाना रथान्रक्षथः । तदीयानर्वतोऽश्वांश्च याभिरवथः । ताभिः सर्वाभिरूतिभिऽ सहास्मानप्यागच्छतं ॥ गोषु युधम् । युध संप्रहारे । गोषु युध्यत इति गोषुयुत् । तत्पुरुषे कृति बहुलमित्यलुक् । नृषाह्ये । षह मर्षणे । शकिसहोश्चेति यत् अन्येषामपि दृश्यत इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता वन षण संभक्तौ । भावे क्तिन् । जनसनखनां सन् झलोरित्यात्वम् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं निपातितम् । सुपां सुलुगिति चतुर्थ्या डादेशः । जिन्वथः । जिवि प्रीणनार्थः । भौवादिकः । इदित्त्वान्नुम् । रथान् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः ॥ २२ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७