मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११२, ऋक् २३

संहिता

याभि॒ः कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् ।
याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

पदपाठः

याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।
याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हे शतक्रतू बहुविधकर्माणावश्विनौ । आर्जुनेयं अर्जुन इतींद्रस्य नाम । तथा च वाजसनेयकम् । एतद्वा इंद्रस्य गुह्यं नाम यदर्जुन इति । तस्य पुत्रं कुत्सं याभिरूतिभिः प्रावतम् । प्रकर्षेणारक्षतम् । तथा तुर्वीतिं दभीतिं च याभिरूतिभिः प्रावतम् । अपि च । याभिर्ध्वसंतिमेतत्संज्ञं पुरुषंतिमेतन्नामानं च ऋषिमावतम् । अरक्षतम् । ताभिः सर्वाभिरूतिभिः सहास्मानपि सुष्ठ्वागच्छतं ॥ आर्जुनेयम् । शुभ्रादिभ्यश्च (पा ४-१-१२३) इति चशब्दोऽनुक्तसमुच्चयार्थः इत्युक्तत्वात् ढक् । तुर्वीतिम् । तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । दन्भु दंभे औणादिकः कीतिप्रत्ययः । ध्वसंतिम् । ध्वंसु गतौ च । औणादिको झिङ् प्रत्ययः । अनिदितामिति नलोपः झोंऽतः । पुरुषंतिम् । पुरु सनोति ददातीति पुरुषंतिः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । न क्तिचि दीर्घश्चेत्यनुनासिकलोपोपधादीर्घयोर्निषेधः ॥ २३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७