मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १

संहिता

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।
यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥

पदपाठः

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ ।
यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥

सायणभाष्यम्

इत्थं सप्तममध्यायं वाख्यायाष्टमोऽध्यायो व्याख्यातुमारभ्यते । प्रथमे मंडले षोडशेऽनुवाके सप्त सूक्तानि गतानि । इदमिति विंतत्यृचमष्टमं सूक्तं अत्रानुक्रम्यते । इदं विंशतिरुषस्यं द्वितीयोऽर्धर्चो रात्रेश्चेति । ऋषिश्चा न्यस्मादिति परिभाषयानुवृत्तेरांगिरसः कुत्स ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छंदः । उषा देवता द्वितीयस्यार्धर्चस्य रात्रिरपि ॥ प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छंदस्येतत्सूक्तम् । सूत्रितं च । इदं श्रेष्ठं पृथू रथ इति सूक्ते (आ ४-१४) इति ॥ आश्विनशस्त्रे चेदं सूक्तं प्रातरनुवाकातिदेशात् ॥

ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्य इदमुषआख्यं ज्योतिः श्रेष्ठम् । प्रशस्यतमम् । अस्य कोऽतिशय इति चेत् उच्यते । नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत् । चंद्रस्तु यद्यप्यन्यत्प्रकाशयति तथापि न विस्पष्टप्रकाशः । औषसं तु ज्योतिर्युगपदेव सर्वस्य जगतोंऽधकारनिराकरणेन विशेषेण प्रकाशकम् । अतः प्रशस्यतममित्यर्थः । तादृशं ज्योतिरागात् । पूर्वस्यां दिश्यागमत् । आगते च तस्मिन् चित्रश्चायनीयः प्रकेतोंऽधकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकस्तदीयो रश्मिर्विभ्वा विभुर्व्याप्तः सन्नजनिष्ट । प्रादुरभूत् । किंच । यथा रात्री रात्रिः स्वयं सवितुः सूर्यप्रकाशात्प्रसूता उत्पन्ना । सूर्यो ह्यस्तं गच्छन् रात्रिं जनयति । तस्मिन्न नस्तमिते रात्रेरुत्पत्त्यभावात् । एवमेव रात्रिरप्युषसे सवायोषस उत्पत्तये तदर्थं योनि स्थानं स्वकीयापरभागलक्षणमारैक् । अरेचितवती । कल्पितवतीत्यर्थः । यद्वा प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरप्युषस उषसो यज्जन्म तदर्थं योनि स्वापरभागलक्षणं स्थानं कृतवती । अत्र निरुक्तम् । इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् (नि २-१९) इति ॥ श्रेष्ठम् । प्रशस्यशब्दादातिशायनिक इष्ठन् । प्रशस्यस्यश्रः (पा ५-३-६०) इति श्रादेशः । प्रकृत्यैकाच् (पा ६-४-१६३) इति प्रकृतिभावाट्टलोपाभावः । अगात् । एतेर्लुङीर्णो गा लुङीति गादेशः गातिस्थेति सिचो लुक् । प्रकेतः । कितज्ञाने । अंतर्भावितण्यर्थात्कर्मणि घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिच इडागमः । विभ्वा । विप्रसंभ्यो ड्व संज्ञायामिति भवतेर्डुप्रत्ययः । सुपां सुलुगित्यादिना सोराकारादेशः । ओः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथेतियणादेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा विपूर्वाद्भवतेरौणादिको डुन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्रसूता । षूङ् प्राणिप्रसवे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सवाय । छंदसि जवसवौ वक्तव्यौ । पा ३-३-५६-४ । इति निपातनादच् । चित्त्वादंतो दात्तत्वम् । अणोऽप्रगृह्यस्यानुनासिक इति संहितायामकारः सानुनासिकः । एव । निपातस्य चेति संहितायां दीर्घः । रात्री रात्रेश्चाजसाविति ङीप् । यस्येति चेतीकारलोपः । अरैक् । रिचिर् विरेचने । लङि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणे हल्ङ्याब्भ्य इति तिलोपः । वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः ॥ १ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः