मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् २

संहिता

रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।
स॒मा॒नब॑न्धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥

पदपाठः

रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊं॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ ।
स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥

सायणभाष्यम्

श्वेत्येत्युषसो नामधेयम् । रुशती दीप्ता श्वेत्या श्वेतवर्णोषा रुशद्वत्सा रुशद्दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता । यथा मातुः समीपे वत्सः संचरति । एवमुषसः समीपे सूर्यस्य नित्यमवस्थानात्तद्वत्सत्वम् । अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन्हरति । एवमुषसोऽवश्यायाख्यं रसं पिबन्वत्स इत्युच्यते । तादृशी सत्यागात् । आगतवती आगतवती । आगताया अस्या उषसः कृष्णा कृष्णवर्णा रात्रिः सदनानि स्थानानि स्वकीयांत्यार्धयामलक्षणान्यरैक् । आरेचितवती । कल्पितवती । दत्तवतीत्यर्थः । उ इत्येतत्पादपूरणम् । अपि चैते रात्र्युषसौ समानबंधू समानेनैकेन सूर्याख्येन बंधुना सख्या युक्ते । यद्वा । सूर्येण सह संबद्धे । यथोषा उदेष्यता सूर्येण संबद्धा एवं रात्रिरप्यस्तंयता सूर्येण संबद्दा । अमृते मरणरहिते कालात्मकतया नित्यत्वात् अनूची अन्वंचंत्यौ । प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छंत्यौ । यद्वा सूर्यगत्यनुसारेण गच्छंत्यौ । एवंभूते वर्णं सर्वेषां प्राणिनां रूपमामिनाने । जरयंत्यौ । यद्वा स्वकीयं रूपं हिंसंत्यौ । उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या । एवंविधे सत्यौ द्यावा द्योतमाने चरतः । प्रतिदिवसमावर्तेते । यद्वा । द्यावा नभसांतरिक्षमार्गेण चरतः । प्रतिदिवसं गच्छतम् । अत्र निरुक्तम् । रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा । रुशती श्वेत्यागात् । श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णः । अथैने संस्तौति समानबंधू समानबंधने अमृते अमरणधर्माणावनूची अनूच्यावितरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादामिनाने आमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे (नि २-२०) अति । श्वेत्या । श्विता वर्णे । अस्माण्ण्यंतादचो यदिति भावे यत् । णिलोपः । अर्शआदित्वान्मत्वर्थीयोऽच् । अमृते । मृतं मरणमनयोर्नास्तीति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । अनूची । अनुपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घः । अनुदात्तस्य च यत्रोदात्तलोप इति ङीप उदात्तत्वम् । सुपां सुलुगिति विभक्तेर्लुक् । आमिनाने । मीङ् हीसायाम् । क्रैय्यादिकः । शानचि मिनातेर्निगम इति ह्रस्वत्वं ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः