मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ४

संहिता

भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः ।
प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः ।
प्र॒ऽअर्प्य॑ । जग॑त् । वि । ऊं॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

भास्वती विशिष्टप्रकाशनयुक्ता । सूनृतेति वाङ्नाम । सूनृतानां वाचां नेत्र्युत्पादयित्री । उषसः प्रादुर्भावानंतरं हि पशुपक्षिमृगादयः सर्वे शब्दं कुर्वंति । एवंभूतोषा अचेति । अस्माभिरज्ञायि । चित्रा चायनीया ज्ञाता सा नोऽस्माकं दुरो द्वाराणि तमसा तिरोहितानि व्यावः । व्यवृणोत् । यथास्माभिर्दृश्यंते तथा तमो निवार्य प्रकाशयतीत्यर्थः । अपि च जगत्सर्वं भुवनं प्रार्प्य प्रकाशं गमयित्वा नोऽस्माकं रायो धनानि व्यख्यत् । विशिष्टप्रकाशनयुक्तान्यकरोत् । उ इत्येतत्पादपूरणम् । सैषोषा विश्वा भुवनानि सर्वाणि भुवनानि तमसा तिरोहितत्वेनाविद्यमानकल्पान्यजीगः । उद्गिरति । स्वमुखान्निर्गमयति । स्वकीयेन प्रकाशेन तमो निःसार्य पुनरुत्पन्नानीव करोतीत्यर्थः ॥ नेत्री । णीञ् प्रापणे । तृच् । ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वादिति ङीप उदात्तत्वम् । अचेति । चितीसंज्ञाने । दुरः । द्वारशब्दस्य रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति बहुलवचनात्संप्रसारणम् । आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणः हल्ङ्याब्भ्य इति तिलोपः । छंदस्यपि दृश्यत इत्याडागमः । प्रार्प्य । ऋ गतौ । णावर्तिह्रीत्यादिना पुक् । समासेऽनञ्पूर्वे क्त्वो ल्यप् । अख्यत् । ख्या प्रकथने । लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । अजीगः । गॄ निगरणे । लङि तिपि बहुलं छंदसीति विकरणस्य श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वम् । छांदस ईकारः । यद्वा । अस्माण्ण्यंताल्लुङि चङि द्विर्भावसन्वद्भावेत्वदीर्घाः । छांदसश्चङो लोपः ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः