मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ५

संहिता

जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वम् ।
द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊं॒ इति॑ । त्व॒म् ।
द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

मघोनीत्युषसो नामधेयम् । मघोनी धनवत्युषा जिह्मश्ये जिह्मं वक्रं शयानाय पुरुषाय चरितवे चरितुं शयनादुत्थाय स्वापेक्षितं प्रति गंतुं व्युच्छंती भवति । त्वम् । अयमेकशब्दपर्यायः सर्वनामशब्दः । यदाह त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तम् (नि १-७) इति । त्वमेकं प्रत्याभोगय आभोग्याय शब्दादिविषयार्थम् । तथापरं प्रतीष्टये यागार्थम् । तथान्यं प्रतिराये धनार्थं च व्युच्छंतीति शेषः । उशब्दश्चार्थे । अपि च दभ्रमल्पं पश्यद्भ्योंऽधकारावृतत्वेनेषद्द्रष्टृभ्योमनुष्येभ्यो विचक्षे विशिष्टप्रकाशाय व्युच्छंत्युर्विया उर्वी विस्तीर्णोषाः सर्वाणि भूतजातानि तमसा तिरोहितानि प्रकाशदानेनोद्गीर्णानीव करोति ॥ जिह्मश्ये । शीङ् स्वप्ने । जिह्मं शेत इति जिह्मशीः । क्विप्चेति क्विप् । कृदुत्तपदप्रकृतिस्वरत्वम् । एरनेकाच इति यण् । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वम् । आभोगये । आभोगशब्दाच्चतुर्थ्येकवचने यकारोपजनः । यद्वा । आङ् पूर्वाद्भुजेर्बहुलवचनादौणादिकः किप्रत्ययः कुत्वं च । उर्विया । इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इत्युर्वीशब्दादुत्तरस्य सोर्डियाजादेशः । विचक्षे । चक्षिङ् व्यक्तायां वाचि । विपूर्वादस्मात्संपदागिलक्षणो भावे क्विप् ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः