मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ६

संहिता

क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै ।
विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै ।
विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

क्षत्राय । धननामैतत् । धनार्थं त्वमेकं प्रत्युषा व्युच्छंतीति शेषः । तथा श्रवशेऽन्नार्थं त्वमेकं प्रति महीयै महत्यै इष्टयॆऽग्नि ष्टोमादिमहायज्ञार्थं त्वमेकं प्रतिव्युच्छंती । तथार्थमिवापेक्षितमर्थं प्रतीत्यै गमनार्थं त्वमेकं प्रति व्युच्छंती । अपि च विसदृशा विलक्षणानि नानारूपाणि जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीन्यभिप्रचक्ष आभिमुख्येन प्रकाशयितुं व्युच्छंत्युषाः सर्वाणि भूतजातानि तमसा । निगीर्णान्यजीगः । प्रकाशनेनोद्गीर्णानीवाकरोत् ॥ त्वम् । त्वसमसिमनेमेत्यनुच्चानि (फि ४-१०) इति सर्वानुदात्तत्वम् । महीयै । मह्यै । महेरिन्सर्वधातुभ्य इतीन्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । उदात्तयण इति विभक्तेरुदात्तत्वम् । छांदस ईकारोपजनः । यद्वा महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य याडापः (पा ७-३-११३) इति व्यत्ययेन याडागमः । छांदसमंतोदात्तत्वम् । विसदृशा । त्यदादिषु दृशोऽनालोचने कञ्चीत्यत्र समानान्ययोश्च । पा ३-२-६०-१ । इति वचनाद्दृशेः कञ् । समानस्य छंदसीति सभावः । विगतसादृश्यानि विसदृशानि । शेश्छंदसि बहुलमिति शेर्लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अभिप्रचक्षे । चक्षेस्तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति कलोपः कत्वषत्वे ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः