मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ९

संहिता

उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।
यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्न॑ः ॥

पदपाठः

उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य ।
यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥

सायणभाष्यम्

हे उषस्त्वमग्निं गार्हपत्यादिरूपं समिधे समिंधनाय प्रज्वलनार्थं यच्चकर्थ कृतवती । उषःकाले ह्यग्नये होमार्थमुपसमिध्यंते । अपि च तमसा तिरोहितं जगत्सूर्यस्य चक्षसा प्रकाशेन यद्व्यावः व्यवृणोः तमसा विश्लिष्टमकरोः । तथा मानुषान्मनोः पुत्रान्मनुष्यान्यक्ष्यमाणान्यागं करिष्यतस्त्वं यदजीगः पूर्वं तमसा ग्रस्तान्प्रकाशेनोद्गीर्णानिवाकरोः । हे उषो देवेषु मध्ये त्वमेव भद्रं भजनीयं तदेतत्त्रिविधमप्नः कर्म चकृषे । कृतवती ॥ आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सिलोपः । छंदस्यपि दृश्यत इत्याडागमः । मानुषान् । मनोर्जातावञ्यतौ षुक्चेत्यञ् षुगागमश्च ॥ ९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः