मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १०

संहिता

किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।
अनु॒ पूर्वा॑ः कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥

पदपाठः

किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् ।
अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥

सायणभाष्यम्

समयेत्यव्ययं समीपवचनम् । उषाः समया भवाति समीपस्था भवतीति यदेतत् कित्कियति काले प्रवृत्तं परिसमाप्तं वेत्याकारः प्रश्नार्थः । एतदुक्तं भवति । उषा येन कालेन संयुक्ता स कालः कियान् तस्य कालस्य किं परिमाणमिति अनेनोषसोऽनंतत्वमुक्तम् । तदेव स्पष्टीकरोति । पुरा या उषसो व्यूषुः व्युष्टाः संजाताः । नूनमवश्यमितः परं याश्चोषसो व्युच्छान् । व्युच्छंति व्युष्टा भविष्यंति । तत्र पूर्वा व्युष्टा अतीता उषसो वावशाना कामयमानेदानीं वर्तमानोषा अनु कृपते । अनुकल्प्यते । समर्था भवति । अतीता उषसो यथा प्रकाशमकुर्वन् तद्वदेषापि प्रकाशं करोतीत्यर्थः । तथा प्रदीध्याना प्रकर्षेण दीप्यमानोषा अन्याभिरागावि नीभिरुषोभिर्जोषं सहैति । संगच्छते । आगामिन्योऽप्येतदीयं प्रकाशमनुकुर्वंतीत्यर्थः ॥ कियति । किं परिमाणमस्य । किमिदंभ्यां वो घः (पा ५-२-४०) इति घत्वविधानसामर्थ्यात्किम् शब्दादपि परिमाणार्थे वतुब्वकारस्य घत्वम् । इदंकिमोरीश्की (पा ६-३-९०) इति किमः कीआदेशः । घस्येयादेशे यस्येति लोपः । प्रत्ययाद्युदात्तत्वम् । छांदसः सांहितिको दीर्घः । भवाति । लेट्याडागमः । व्यूषुः । विपूर्वो वसतिर्व्युच्छने वर्तते । लिट्युसि कित्त्वे यजादित्वात्संप्रसारणं द्विर्वचनादि । व्युच्छान् । उच्छी विवासे । विवासो वर्जनम् । लेट्यडागमः । संयोगांतस्य लोपः । कृपते । कृपू सामर्थ्ये । व्यत्ययेन शः । वावशाना । वश कांतौ । अस्माद्यङ् लुगंतात्ताच्छीलिकश्चानश् । प्रदीध्याना । दीधीङ् दीप्तिदेवनयोः । लटः शानच् । अदादित्वाच्छपो लुक् । जक्षित्यादयः षडित्यभ्यस्तसंज्ञायामभ्यस्तानामादिरित्याद्युदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १० ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः