मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् ११

संहिता

ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती॑मु॒षसं॒ मर्त्या॑सः ।
अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥

पदपाठः

ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः ।
अ॒स्माभिः॑ । ऊं॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥

सायणभाष्यम्

ये मर्त्यासो मरणधर्माणो मनुष्या व्युच्छंतीं विवासयंतीं पूर्वतरामतिशयेन पूर्वां विप्रकृष्टामुषसमपश्यन् दृष्टवंतः ते मनुष्या ईयुः । गताः । तथास्माभिरपि नु इदानीं प्रतिचक्ष्या प्रकर्षेण द्रष्टव्याभूत् । जाता । तथापरीषु भाविनीषु रात्रिषु ये मनुष्या एतामुपसं पश्यान् पश्यंति ते । आ उ इति निपातद्वयसमुदायः । तत्र उ इत्येतदवधारणे । एव यंति । आगच्छंत्येव । कालत्रयेऽप्येषा व्याप्य वर्तत इत्यर्थः ॥ ईयुः । इण् गतौ । लिट्युसीणो यणिति यणादेशः । द्विर्वचनेऽचीति तस्य स्थानिवद्भावाद्द्विर्भावे दीर्घ इणः किति (पा ७-४-६९) इत्यभ्यासदीर्घत्वम् । ते । युष्मत्तत्ततक्षुःष्वंतःपादमिति सकारस्य षत्वं ष्टुत्वं च । मर्त्यासः । आज्जसेरसुक् ॥ ११ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः