मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १४

संहिता

व्य१॒॑ञ्जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः ।
प्र॒बो॒धय॑न्त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥

पदपाठः

वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः ।
प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥

सायणभाष्यम्

दिवो नभसः संबंधिनीष्वातासु । दिङ्नामैतत् । आततासु विस्तीर्णासु दिक्षूषा आंजिभिर्व्यंजकैः प्रकाशकैस्तेजोभिर्व्यद्यौत् । विद्योतते । प्रकाशते । सैषा देवी देवनशीला कृष्णां निर्णिजम् । निर्णिगिति रूपनाम । रात्रिकृतम् । कृष्णं रूपमपावः । अपावृणोत् । प्रकाशेन तिरस्कृतवती । अपि चारुणेभिररुणैर्लोहितवर्णैरश्वैर्व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा सुयुजा सम्यग्युक्तेन रथेनोषा आ याति । आगच्छति । किं कुर्वती । प्रबोधयंती सुप्तान्प्राणिनः प्रबुद्धान्कुर्वती ॥ अद्यौत् । द्युत दीप्तौ । लुङ् । द्युद्भ्यो लुङि (पा १-३-९१) इति परस्मैपदम् । व्यत्ययेन च्लेर्लुक् । गुणे प्राप्ते वृद्धिश्छांदसी । यद्वा । द्यु अभिगमने । आदादिकः । उतो वृद्धिर्लुकि हलि (पा ७-३-८९) इति वृद्धिः ॥ १४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः