मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १५

संहिता

आ॒वह॑न्ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना ।
ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥

पदपाठः

आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना ।
ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥

सायणभाष्यम्

देवानां हविःष्वावहंतीत्येषोषसो याज्या । सूत्रितं च । आ द्यां तनोषि रश्मिभिरावहंती पोष्या वार्याणि न ता अर्वा रेणुककाटो अश्नुते (आ ६-१४) इति ॥

पोष्या यावज्जीवं पोषणसमर्थानि वार्याणि वरणीयानि धनान्यावहंत्यस्मभ्यमानयंती चेकिताना सर्वं जनं प्रज्ञापयंत्युषाश्चित्रं विचित्रमाश्चर्यभूतं चायनीयं वा केतुं प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनसमर्थं कृणुते । स्वात्मनः प्रकाशात्कुरुते । सैषेयुषीणां गमनवतीनां पूर्वनिष्पन्नानां शश्वतीनां बह्वीनामुषसामुपमा उप समीपे निर्मितोपमानभूता वा विभातिनां विशेषेण प्रकाशमानानामागामिनीनामुषसां प्रथमाद्या एवंभूतोषा व्यश्वैत् । तेजसा प्रवृद्धासीत् ॥ पोष्या । पुष पुष्टौ । पोषणं पोषः । भावे घञ् । तत्र भवानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । शेश्छंदसि बहुल मिति शेर्लोपः । वार्याणि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । चेकितनाना । कित ज्ञाने । अस्माद्यङंताल्लटः शानच् । छंदस्युभयथेति तस्यार्धधातुकत्वादतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । ईयुषीणाम् । इण् गतौ । लिटः क्वसुः । द्विर्भावादि । उगितश्चेति ङीप् । वसोः संप्रसारणम् । इणो यण्णिति यणादेशः । दीर्घ इणः कितीत्यभ्यासस्य दीर्घत्वम् । शासिवसिघसीनां चेति षत्वम् । ङीप्लुपौ पित्वादनुदात्तौ । विभातीनाम् । भा दीप्तौ । अस्माच्छत्रंतात्पूर्ववत् ङीप् । ङ्याश्छंदसि बहुलमिति नाम उदात्तत्वम् । विश्वैत् । टुओश्वि गतिवृद्ध्योः । लङि बहुलं छंदसीति विकरणस्य लुक् । गुणे कृते व्यत्ययेनैत्वं ॥ १५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः