मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११३, ऋक् १६

संहिता

उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति ।
आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयु॑ः ॥

पदपाठः

उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ ।
अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥

सायणभाष्यम्

हे मनुष्या उदीर्ध्वम् । शयनं परित्यज्योद्गच्चत । नोऽस्माकमसुः शरीरस्य प्रेरयिता जीवो जीवात्मागात् । आगतवान् । तमोऽपप्रागात् । अपक्रांतम् । उषसः प्रकाशे सति सर्वजीवनव्यापारयोगः । तस्मात्परमात्मरूपतया स च जीवस्तदेव ज्योतिरैति । आगच्छति । सूर्याय सूर्यस्य पंथां मार्गमारैक् । विविक्तीकरोति । यातवे गमनाय । तस्मिन्देशेऽगन्म गच्छामो यत्र यस्मिन्देश आयुः । अन्ननामैतत् । अन्नं प्रतिरंते । प्रपूर्वस्तिरतिर्वर्धनार्थः । उदारा दानेन प्रवर्धयंति ॥ ईर्ध्वम् । ईर गतौ । आदादिकोऽनुदात्तेत् । अरैक् । रिचिर् विरेचने । लङि बहुलं छंदसीति विकरणस्य लुक् । गुणे व्यत्ययेनैत्वम् । पंथाम् । द्वितीयायामपि पथिमथ्यृभुक्षामादिति व्यत्ययेनात्वम् । अगन्म । गमेर्लङि बहुलं छंदसीति विकरणस्य लुक् । म्वोश्च (पा ८-२-६५) इति मकारस्य नकारः ॥ १६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः