मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् १

संहिता

इ॒मा रु॒द्राय॑ त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒तीः ।
यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्न॑नातु॒रम् ॥

पदपाठः

इ॒माः । रु॒द्राय॑ । त॒वसे॑ । क॒प॒र्दिने॑ । क्ष॒यत्ऽवी॑राय । प्र । भ॒रा॒म॒हे॒ । म॒तीः ।
यथा॑ । शम् । अस॑त् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । विश्व॑म् । पु॒ष्टम् । ग्रामे॑ । अ॒स्मिन् । अ॒ना॒तु॒रम् ॥

सायणभाष्यम्

इमा रुद्रायेत्येकादशर्चं नवमं सूक्तं कुत्सस्यार्षम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्टा नव जगत्यः । रुद्रो देवता । तथा चानुक्रांतम् । इमा एकादश रौद्रं द्वित्रिष्टुबंतमिति । शूलगवादिषु रुद्रदेवत्येषु कर्मस्वनेन सूक्तेन दिगुपस्थेया । तथा च सूत्रितम् । कद्रुद्रायेमा रुद्राया ते पितरिमा रुद्राय स्थिरधन्वने गिर इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् । आ गृ ४-९-२१ । इति ॥

रुद्राय । रोदयति सर्वमंतकाल इति रुद्रः । यद्वा रुत्संसाराख्यं दुःखम् । तद्द्रावयत्यपगमयति विनाशयतीति रुद्रः । यद्वा । रुतः शब्दरूपा उपनिषधः । ताभिर्द्रूयते गम्यते प्रतिपाद्यत इति रुद्रः । यद्वा । रुत् शब्दात्मिका वाणी तत्प्रतिपाद्यात्मविद्या वा । तामुपासकेभ्यो राति ददातीति रुद्रः । यद्वा । रुणद्व्यावृणोतीति रुदंधकारादि । तद्दृणाति विदारयतीति रुद्रः । यद्वा । कदाचिद्देवसुरसंग्रामेऽग्न्यात्मको रुद्रो देवैर्निक्षिप्तं धनमपहृत्य निरगात् । असुराञ्जित्वा देवा एनमन्विष्य दृष्ट्वाधनमपाहरन् । तदानीमरुदत् । तस्माद्रुद्र इत्याख्यायते । तथा च तैत्तिरीयकम् । सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । तै सं १-५-१-१ । इति । तस्मैरुद्राय मतीर्मननीया इमा स्तुतीः प्र भरामहे । प्रकर्षेण निष्पादयामः । कीदृशाय । तवसे प्रवृद्धाय कपर्दिने जटलाय क्षयद्वीराय क्षयंतो विनश्यंतो वीरा यस्मिन् तादृशाय । यद्वा । क्षयतिरैश्वर्यकर्मा । क्षयंतः प्राप्तैश्वर्या वीरा मरुद्गणाः पुत्रा यस्य तस्मै । यथा येन प्रकारेण शं शमनीयानां रोगाणामुपशमनं द्विपदेऽस्मदीयाय मनुष्याय चतुष्पदे गवाश्वप्रभृतये चासत् । भवेत् तेन प्रकारेण स्तुतीः कुर्म इत्यर्थः । अतोऽस्मिन्नस्मदीये ग्रामे वर्तमानं विश्वं सर्वं प्राणिजातमनातुरम् । आतुरा रुग्णाः । तै रहितं सत् पुष्टं प्रवृद्धं भवतु ॥ रुद्राय । रोदेर्णिलुक्च (उ २-२२) इति रक् तवसे । तवशिर्वृद्ध्यर्थः । सौत्रो धातुः । औणादिकोऽसिप्रत्ययः । क्षयद्वीराय । क्षि क्षये । लटः शतृ । छंदस्युभयथेति शतुरार्धधातुकत्वेनादुपदेशाल्लसार्वधातुकानुदात्तत्वाभावात्तस्यैव स्वरः शिष्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असत् अस भुवि । लेट्यडागमः । इतश्च लोप इतीकारलोपः । द्विपदे । द्वौपादावस्य । संख्यासुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । चतुर्थ्येकवचने भसंज्ञायां पादः पदिति पद्भावः । एकदेशविकृतस्यानन्यत्वात् । परि ३७ । द्वित्रिभ्यां पाद्दन्मूर्द्ध सु बहुव्रीहावित्युत्तरपदाद्युदात्तत्वम् । चतुष्पदे । स्वरवर्जं पूर्ववत् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च न्रः संख्यायाः (फि २-५) इत्याद्युदात्तं ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः