मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् २

संहिता

मृ॒ळा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी॑राय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तिषु ॥

पदपाठः

मृ॒ळ । नः॒ । रु॒द्र॒ । उ॒त । नः॒ । मयः॑ । कृ॒धि॒ । क्ष॒यत्ऽवी॑राय । नम॑सा । वि॒धे॒म॒ । ते॒ ।
यत् । शम् । च॒ । योः । च॒ । मनुः॑ । आ॒ऽये॒जे । पि॒ता । तत् । अ॒श्या॒म॒ । तव॑ । रु॒द्र॒ । प्रऽनी॑तिषु ॥

सायणभाष्यम्

रुद्रदेवत्ये पशौ वपापुरोडाशयोर्मृळा नो रुद्रेत्यादिके द्वे अनुवाक्ये । तथा च सूत्रितम् । मृळा नो रुद्रोत नो मयस्कृधीति द्वे आ ते पितर्मरुतां सुम्नमेतु (आ ३-८) इति ॥

हे रुद्र नोऽस्मभ्यमस्मदर्थं मृळ । त्वं सुखयिता भव । उतापि च तदनंतरं नोऽस्माकं मयः सुखं कृधि । कुरु । वयं च क्षयद्वीराय क्षपितसर्ववीरं प्राप्तैश्वर्यैर्मरुद्भिर्युक्तं वा ते त्वां नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा विधेम । परिचरेम । विधतिः परिचरणकर्मा । अपि च । पितोत्पादको मनुः स्वकीयाभ्यः प्रजाभ्यः शं रोगाणां शमनं योश्च भयानां यावनं च यदेतद्द्वयमायेजॆ देवेभ्यः सकाशात्प्राप्य दत्तवान् हे रुद्र तव प्रणीतिषु प्रकृष्टनयनेषु सत्सु तद्वयमश्याम । व्याप्नुयाम ॥ मृळ । मृड सुखने । तौदादिकः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । कृधि । करोतेर्लोट बहुलं छंदसीति विकरणस्य लुक् । श्रुशृणुपॄकृवृभ्यश्चंदसीति हेर्धिः । अतः कृकमीति मयसो विसर्जनीयस्य सत्वम् । क्षयद्वीराय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । विधेम । विध विधाने । तौदादिकः । आयेजे । यज देवपूजासंगतिकरणदानेषु । लिट संज्ञापूर्वकस्य विधेरनित्यत्वात्संप्रसारणाभाव एत्वा भ्यासलोपौ । अश्याम । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति विकरणस्य लुक् ॥ २ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः