मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ४

संहिता

त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं॑ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे ।
आ॒रे अ॒स्मद्दैव्यं॒ हेळो॑ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ॥

पदपाठः

त्वे॒षम् । व॒यम् । रु॒द्रम् । य॒ज्ञ॒ऽसाध॑म् । व॒ङ्कुम् । क॒विम् । अव॑से । नि । ह्व॒या॒म॒हे॒ ।
आ॒रे । अ॒स्मत् । दैव्य॑म् । हेळः॑ । अ॒स्य॒तु॒ । सु॒ऽम॒तिम् । इत् । व॒यम् । अ॒स्य॒ । आ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

अवसे रक्षणाय रुद्रं महादेवं नि ह्वयामहे । नितरामाह्वयामः । कीदृशम् । त्वेषं दीप्तं यज्ञसाधं यज्ञस्य साधयितारम् । एष हि यज्ञं स्विष्टं करोति । तथा च तैत्तिरीयके देवा वै यज्ञाद्रुद्रमंतरायन्नित्युपक्रम्याम्मातम् । स्विष्टं वै न इदं भविष्यति यदिमं राधयिष्याम इति तत्स्विष्टकृतः स्विष्टकृत्त्वम् । तै । सं २-६ ८-३ । इति । वंकुम् । कुटलगंतारं कविं क्रांतदर्शिनम् । स च रुद्रो दैव्यं देवस्य द्योतमानस्य संबंधिनं हेळः क्रोधमस्मदारेऽस्मत्तो दूरदेशेऽस्यतु प्रेरयतु । अस्य महादेवस्य सुमतिमित् शोभनामनुग्रहरूपां बुद्धिमेव वयमा वृणीमहे । आभिमुख्येन संभजामहे ॥ यज्ञसाधम् । यज्ञं साधयतीति यज्ञसात् । षिधु संराद्धौ । सिध्यतेरपारलौकिक इत्यात्वम् । यद्वा । राध साध संसिद्धौ । अस्माण्ण्यंतात् क्विप् । वंकुम् । वकि कौटल्ये । औणादिक उप्रत्ययः । नि । ह्वयामहे । निसमुपविभ्यो ह्व इत्यात्मनेपदम् । दैव्यम् । देवाद्यञञौ । पा ४-१-८५-३ । इति प्राग्दीव्यतीयो यञ् । अस्यतु । असु क्षेपणे । दैवादिकः । वृणीमहे । वृङ् संभक्तौ । क्रैय्यादिकः ॥ ४ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः