मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ५

संहिता

दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं॑ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे ।
हस्ते॒ बिभ्र॑द्भेष॒जा वार्या॑णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं॑ यंसत् ॥

पदपाठः

दि॒वः । व॒रा॒हम् । अ॒रु॒षम् । क॒प॒र्दिन॑म् । त्वे॒षम् । रू॒पम् । नम॑सा । नि । ह्व॒या॒म॒हे॒ ।
हस्ते॑ । बिभ्र॑त् । भे॒ष॒जा । वार्या॑णि । शर्म॑ । वर्म॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । यं॒स॒त् ॥

सायणभाष्यम्

वराहं वराहारमुत्कृष्टभोजनम् । यद्वा । वराहवद्दृढांगम् । अरुषमारोचमानं कपर्दिनं जटाभिर्युक्तं त्वेषं तेजसा दीप्यमानं रूपं निरूपणीयं वेदांतैरधिगम्यं एवंभूतं रुद्रं नमसा हविर्लक्षणेनान्नेन नमस्कारेण वा दिवो द्युलोकसकाशान्नि ह्वयामहे । नितरामाह्वयामः । स आहूतो रुद्रो हस्ते स्वकीये बाहौ वार्याणि सर्वैर्वरणीयानि भेषजा भैषज्यानि रोगशमनहेतुभूतानि बिभ्रत् धारयन् अस्मभ्यं स्तोतृभ्यः शर्मारोग्यलक्षणं सुखं वर्मायुधानां निवारकं कवचं छर्दिः । गृहनामैतत् । गृहं च यंसत् । प्रयच्छतु ॥ बिभ्रत् । डुभृञ् धारणपोषणयोः । औहोत्यादिकः । लटः शतृ । भृञामिदित्यभ्यासस्येत्वम् । भेषजा । भिषज् चिकित्सायाम् । कंड्वादिः । पचाद्यच् । अतोलोपयलोपौ । सुमंगलभेषजाच्च (पा ४-१-३०) इति निपातनाद्रूपसिद्धिः । शेश्छंदसि बहुलमिति शेर्लोपः । वार्याणि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदेत्याद्युदात्तत्वम् । छर्दिः । उछृदिर् दीप्तिदेवनयोः । छृद्यते दीप्यते सुवर्णादिभिर्धनैः प्रकाश्यत इति छर्दिर्गृहम् । अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । इतश्च लोप इतीकारलोपः ॥ ५ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः