मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ६

संहिता

इ॒दं पि॒त्रे म॒रुता॑मुच्यते॒ वचः॑ स्वा॒दोः स्वादी॑यो रु॒द्राय॒ वर्ध॑नम् ।
रास्वा॑ च नो अमृत मर्त॒भोज॑नं॒ त्मने॑ तो॒काय॒ तन॑याय मृळ ॥

पदपाठः

इ॒दम् । पि॒त्रे । म॒रुता॑म् । उ॒च्य॒ते॒ । वचः॑ । स्वा॒दोः । स्वादी॑यः । रु॒द्राय॑ । वर्ध॑नम् ।
रास्व॑ । च॒ । नः॒ । अ॒मृ॒त॒ । म॒र्त॒ऽभोज॑नम् । त्मने॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥

सायणभाष्यम्

इदं स्तुतिलक्षणं वचो मरुतामेकोपंचाशत्संख्याकानां देव विशेषाणां पित्रे जनकाय रुद्रायेश्वरायोच्यते । उच्चार्यते । कीदृशम् । स्वादोः स्वादियो रसवतो मधुघृतादेरपि स्वादुतरम् । अतिशयेन हर्षजनकमित्यर्थः । वर्धनं स्तुत्यस्य प्रवर्धकम् । स्तोत्रेण हि देवता हृष्टा सती प्रवर्धते । रुद्रस्य च मरुतां पितृत्वमेवमाख्यायते । पुरा कदाचिदिंद्रोऽसुराञ्जिगाय । तदानीं दितिरसुरमातेंद्रहननसमर्थं पुत्रं कामयमाना तपसा भर्तुः सकाशाद्गर्भं लेभे । इमं वृत्तांतमवगच्छन्निंद्रो वज्रहस्तः सन् सूक्ष्मरूपो भूत्वा तस्या उदरं प्रविश्य तं गर्भं सप्तधा बिभेद । पुनरप्येकैकं सप्तखंडमकरोत् । ते सर्वे गर्भैकदेशा योनेर्निर्गत्यारुदन् । एतस्मिन्नवसरे लीलार्थं गच्छंतौ पार्वतीपरमेश्वराविमान्ददृशतुः । महेशं प्रति पार्वत्येवमवोचत् । इमे मांसखंडा यथा प्रत्येकं पुत्राः संपद्यंतामेवं त्वया कार्यं मयि चेत्प्रीतिरस्तीति । स च महेश्वरस्तान्समानरूपान् समानवयसः । समानालंकारान्पुत्रान्कृत्वा गौर्यै प्रददौ तवेमे पुत्राः संत्विति । अतः सर्वेषु मारुतेषु सूक्तेषु मरुतो रुद्रपुत्रा इति स्तूयंते । रौद्रेषु च मरुतां पिता रुद्र इति अपि च हे अमृत मरणरहित रुद्र मर्तभोजनं मर्तानां मनुष्याणां भोगपर्याप्तमन्नं नोऽस्मभ्यं रास्व । प्रयच्च । तथा त्मने आत्मने । द्वितीयार्थे चतुर्थी । माम् । तोकाय तोकं पुत्रं तनयाय तनयं तत्पुत्रं च मृळ । सुखय ॥ पित्रे । उदात्तयण इति विभक्तेरुदात्तत्वम् । रास्व । रा दाने । व्यत्ययेनात्मनेपदम् । त्मने । मंत्रेष्वाङ्यादेरात्मन इत्यत्राङोऽन्यत्रापि छंदसि दृश्यते । का ६-४-१४१-१ । इति वचनादात्मन आकारलोपः ॥ ६ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः