मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ८

संहिता

मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्त॒ः सद॒मित्त्वा॑ हवामहे ॥

पदपाठः

मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आ॒यौ । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । रि॒रि॒षः॒ ।
वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । सद॑म् । इत् । त्वा॒ । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे रुद्र नोऽस्माकं तोकादिविषये मा रिरिषः । मा हिंसीः । तोकशब्दः पुत्रवाची तनयस्तत्पुत्रः । आयुरित्यंतोदात्तो मनुष्यनाम । पुत्रपौत्रव्यतिरिक्तो योऽस्मदीयो मनुष्यस्तस्मिन् गोषु पश्वादिष्वश्वेषु च मा रिरिषः । हिंसां मा कृथाः । तथा हे रुद्र वीरान् विक्रांतान् । शौर्योपेतानस्मदीयान् भामितः क्रुद्धः सन् मा वधीः । मा हिंसीः । वयं च हविष्मंतो हविर्भिर्युक्ताः संतः सदमित् सर्वदैव त्वां हवामहे । आह्वयामहे ॥ आयौ । इण् गतौ । छंदसीण इत्युण्प्रत्ययः । भामितः । भाम क्रोधे क्रोधिकरणे चेति कर्तरि क्तः । हवामहे । ह्वेञो लिट बहुलं छंदसीति संप्रसारणं ॥ ८ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः