मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् ९

संहिता

उप॑ ते॒ स्तोमा॑न्पशु॒पा इ॒वाक॑रं॒ रास्वा॑ पितर्मरुतां सु॒म्नम॒स्मे ।
भ॒द्रा हि ते॑ सुम॒तिर्मृ॑ळ॒यत्त॒माथा॑ व॒यमव॒ इत्ते॑ वृणीमहे ॥

पदपाठः

उप॑ । ते॒ । स्तोमा॑न् । प॒शु॒पाःऽइ॑व । आ । अ॒क॒र॒म् । रास्व॑ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । अ॒स्मे इति॑ ।
भ॒द्रा । हि । ते॒ । सु॒ऽमतिः । मृ॒ळ॒यत्ऽत॑मा । अथ॑ । व॒यम् । अव॑ । इत् । ते॒ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

देवसुवां हविःषु रुद्रस्य पशुपतेर्याग उप ते स्तोमानित्यादिके याज्यानुवाक्ये । सूत्रितं च । उप ते स्तोमान् पसुपा इवाकरमिति द्वे (आ ४-११) इति ॥

हे रुद्र स्तोमान् स्तुतिरूपान्मंत्रान् ते तुभ्यमुपाकरम् । उपाकरोमि । समर्पयामि । तत्र दृष्टांतः । पशुपा इव । यथा पशूनां पालयिता गोपः प्रातःकाले स्वस्मै समर्पितान्पशून् सायंकाले स्वामिभ्यः प्रत्यर्पयति एवं त्वत्सकाशाल्लब्धान् स्तुतिरूपान्मंत्रान् स्तुतिसाधनतया तुभ्यं प्रत्यर्पयामीत्यर्थः । हे मरुतां पितर्मरुत्संज्ञानां देवानामुत्पादक रुद्र नोऽस्मभ्यं सुम्नं सुखं रास्व । देहि । अपि च ते त्वदीया सुमतिः कल्याणी बुद्धिर्मृळयत्तमातिशयेन सुखयितृतमा । अत एव भद्रा भजनीया हि । यस्मादेवं तस्मादथानंतरं वयं ते त्वदीयमवो रक्षणं वृणीमहे । संभजामहे ॥ अकरम् । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ् । कृमृदृरुहिभ्य इति च्लेरङादेशः । ऋदृशोऽङि गुणः । पितर्मरुताम् । परमपि छंदसीति परस्याः षष्ठ्याः पूर्वामंत्रितानुप्रवेशे सत्यामंत्रितस्य चेति पदद्वयमप्यनुदात्तम् । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । मृळयत्तमा । मृड सुखने । अस्माण्ण्यंताल्लटः शतृ । तस्य छंदस्युभयथेत्यार्धधातुकाल्लसार्वधातुकानुदात्तत्वाभावे प्रत्ययस्वरः शिष्यते ॥ ९ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः