मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११४, ऋक् १०

संहिता

आ॒रे ते॑ गो॒घ्नमु॒त पू॑रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते॑ अस्तु ।
मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा॑ च न॒ः शर्म॑ यच्छ द्वि॒बर्हा॑ः ॥

पदपाठः

आ॒रे । ते॒ । गो॒ऽघ्नम् । उ॒त । पु॒रु॒ष॒ऽघ्नम् । क्षय॑त्ऽवीर । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ ।
मृ॒ळ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒ऽबर्हाः॑ ॥

सायणभाष्यम्

हे क्षयद्वीर क्षपितसर्वशत्रुजन रुद्र ते त्वदीयं गोघ्नं यद्गोहननं यद्वा गोहननसाधनमायुधम् । उतापि च पुरुषघ्नं पुरुषहननं तत्साधनमायुधं वा तदुभयमारे दूरेऽस्मत्तो विप्रकृष्टदेशे भवतु । अस्मे अस्मासु ते त्वदीयं सुम्नं सुखमस्तु । भवतु । अपि च नोऽस्माकं मृळ । सुखसिद्ध्यर्थं प्रसन्नो भव । हे देव द्योतमान रुद्र नोऽस्मानधि ब्रूहि च । अधिवचनं पक्षपातेन वचनं ब्राह्मणायाधि ब्रूयात् । तै । सम् । २-५-११-९ । इति यथा । अधचाथानंतरं च द्विबर्हा द्वयोः स्थानयोः पृथिव्यामंतरिक्षे च परिवृढः । यद्वा । द्वयोर्दक्षिणोत्तरमार्गयोर्ज्ञानकर्मणोर्वा परिवृढः स्वामी । स त्वं नोऽस्मभ्यं शर्म सुखं यच्छ । देहि ॥ गोघ्नम् । हन हिंसागत्योः । अस्माद्घञर्थे कविधानमिति भावे करणे वा कप्रत्ययः । गमहनेत्युपधालोपः । हो हंतेरिति कुत्वम् । द्विबर्हाः । वृह वृहि वृद्धौ । द्वयोः स्थानयोर्दहते प्रवर्धत इति द्विबर्हाः । असुन् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १० ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः