मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १

संहिता

नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥

पदपाठः

नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ ।
यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥

सायणभाष्यम्

सप्तदशेऽनुवाके पंच सूक्तानि । तत्र नासत्याभ्यामिति पंचविंशत्यृचं प्रथमं सूक्तम् । उशिक्संज्ञायामंगराजस्य महिष्या दास्यां दीर्घतमसोत्पादितः कक्षीवानस्य सूक्तस्य ऋषिः । त्रिष्टुप् छंदः । अश्विनौ देवता । तथा चानुक्रांतम् । नासत्याभ्यां पंचाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत अश्विनं वा इति । तुह्यादिपरिभाषयेदमादीनि पंच सूक्तान्यश्विदेवत्यानि ॥ प्रातरनुवाकस्याश्विने क्रतौ त्रैष्टुभे छंदसीदमादीनि त्रीणि सूक्तानि । अथाश्विन इति खंडे सूत्रितम् । ग्रावाणेव नासत्याभ्यामिति त्रीणि (आ ४-१५) इति ॥ अश्विनशस्त्रे चैतानि शस्यानि प्रातरनुवाकन्यायेन (आ ६-५) इत्यतिदिष्टत्वात् ॥

बर्हिरिव यथा कश्चिद्यजमानो यागार्थ बर्हिः प्र वृंजे प्रकर्षेणान्यूनानतिरिक्तं यागाय पर्याप्तं दर्भं वृंक्ते छिनत्ति । संपादयतीति यावत् । एवमहं नासत्याभ्यामश्विभ्यां स्तोमान् स्तुतीरियर्मि । संपादयामि । एतदेव वितदीक्रियते । अभ्रियेव यथाभ्रियाण्यभ्रेषु मेघेष्ववस्थितान्युदकानि वातो वायुर्वर्षणार्थं बहुशः प्रेरयति एवमहमश्विभ्यां स्तोत्राणीयर्मि । बहुशः प्रेरयामि । कीदृशावश्विनौ । अर्भगाय बालाय स्वयंवरलब्धभार्याय विमदायैतत्संज्ञाय राजर्षये मध्येमार्गं स्वयंवरार्थमागतैस्तामलभमानैरन्यैर्नृपैः सह योद्धुमशक्नुवतेऽपि तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिर्दुष्प्रापेण रथेन यावश्विनौ जायां भार्यां परैरनुक्रांतां न्यूहतुः शत्रून्निहत्य तदीयं गृहं प्रापयामासतुः । ताभ्यामित्यर्थः ॥ नासत्याभ्याम् । सत्सु भवौ सत्यौ । न सत्यावसत्यौ । न असत्यौ नासत्यौ । नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । वृंजे । वृजी वर्जने । आदादिकः । इदित्वान्नुम् । लोपस्त आत्मनेपदेष्विति तलोपः । इयर्मि । ऋगतौ । जुहोत्यादिकः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । आभ्यासस्यासवर्ण इतीयङ् । अभ्रियेव । समुद्राभ्राद्घ इति भवार्थे घः । घस्येयादेशः । शेश्छंदसि बहुलमिति शेर्लोपः । अर्भगाय । अर्तिगॄभ्यां भन् (उ ३-१५२) इत्यर्तेर्भन् । अर्भ एवार्भकः । संज्ञायां कन् (पा ५-३-८७) छांदसो गकारः । अपर आह । अर्भमल्पं गायति शब्दयतीत्यर्भगः । कै गै शब्दे । गापोष्टक् (पा ३-२-८) आतो लोप इट चेत्याकारलोपः । तदेतत्पदकृतः शाकल्यस्याभिमतम् । सेनाजुवा । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादंतर्भावितण्यर्थात् क्विब्वचिप्रच्छीत्यादिना क्विब्दीर्घौ । तन्वादित्वादुवङ् । पा ६-४-७७-१ । न्यूहतुः । वह प्रापणे । लिट्यतुसि यजादित्वात्संप्रसारणं यद्वृत्तान्नित्यमिति निघातप्रतिषेधः ॥ १ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः