मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ४

संहिता

ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथै॑ः श॒तप॑द्भि॒ः षळ॑श्वैः ॥

पदपाठः

ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः ।
स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥

सायणभाष्यम्

हे नासत्यौ सेनया सहोदके निमग्नं भुज्युं तिस्रः क्षपस्त्रिसंख्याका रात्रीस्त्रिरहा त्रिवारमावृत्तान्यहानि चातिव्रजद्भिरतिक्रम्य गच्छद्भिरेतावंतं कालमतिव्याप्य वर्तमानैः पंतगैः पतद्भिस्त्रिभिस्त्रिसंख्याकै रथैरूहथुः । युवामूढवंतौ । क्वेति चेत् उच्यते । समुद्रस्यांबुराशेर्मध्ये धन्वन् धन्वनि जलवर्जिते प्रदेशे । आर्द्रस्योदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च । कथंभूतै रथैः । शतपद्भिः । शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैः । षळश्वैः । षड्भिरश्वैर्युक्तैः ॥ तिस्रः । तिचतुरोः स्त्रियामिति त्रिशब्दस्य तिस्रादेशः । स चांतोदात्तः । अचि र ऋत इति रेफादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । क्षपः । विभक्त्यंतस्य छांदसं ह्रस्वत्वम् । यद्वा । शस्यात इति योगविभागदधातोरप्याकारलोपः । अहा । शेश्छंदसि बहुलमिति शेर्लोपः । पतंगैः । पत्लृगतौ । पतेरंगच् (उ १-११८) धन्वन् । धविर्गत्यर्थः । इदित्त्वान्नुम् । कनिन्युवृषीत्यादिना कनिन् । सुपां सुलुगिति सप्तम्या लुक् । शचपद्भिः । शतं पादा येषाम् । संख्यासुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वात्पादः पदिति पद्भावः । यद्वा । पादसमानार्थः पच्छब्दः प्रकृत्यंतरं द्रष्टव्यं ॥ ४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः