मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ७

संहिता

यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् ।
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्ण॑ः श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥

पदपाठः

यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् ।
का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥

सायणभाष्यम्

अत्रेयमाख्यायिका । कक्षीवानृषिः पुरा तमसातिरोहितज्ञानः सन् ज्ञानार्थमश्विनौ तुष्टाव । तस्मा अश्विनौ प्रभूतां धियं दत्तवंताविति तदाह । हे नरा नेतारावश्विनौ युवं युवां पज्रियाय । प्रजा इत्यंगिरसामाख्या पज्रा वा अंगिरस इत्याम्नातत्वात् । तेषां कुले जाताय कक्षीवते । कक्ष्या रज्जु रश्वस्य । तद्वते तत्संज्ञाय स्तुवते युवयोः स्तुतिं कुर्वते मह्यं पुरंधिं प्रभूतां धियं बुद्धिमरदशम् । व्यलिखतम् । यथा सर्वार्थगोचरा भवति तथा कृतवंतावित्यर्थः । अपि च कारोशरात् । कारोतरो नाम वैदलश्चर्मवेष्टितो भाजनविशेषो यस्मिन्सुरायाः स्रावणं क्रियते । लुप्तोपममेतत् । कारोतराद्यथा सुरायाः संपादकास्तां स्रावयंति एवमेव युवां वृष्णः सेचनसमर्थस्य युष्मदीयस्याश्वस्य शफात् खुरात् सुरायाः शतं कुंभान् असंख्यातान्सुराघटानसिंचतम् । अक्षारयतम् । यद्वा । सिंचतिः पूरणार्थः । कारोतरस्थानीयाद्युष्मदीयाश्वखुरात् या सुरा प्रवहति तयासंख्यातान् घटानसिंचितम् । अपूरयतम् । ये जनाः सौत्रामण्यादिकर्मणि युष्मद्यागय सुरां याचंते तेषामित्यर्थः ॥ स्तुवते । स्तौतेर्लटः शतृ । अदादित्वाच्छपो लुक् । शतुरनुम इति विभक्तेरुदात्तत्वम् । पज्रियाय पज्रशब्दाच्छैषिको घच् । कक्षीवते । आसंदीवदष्ठीवच्चक्रिवत्कक्षीवदिति निपातनात् कक्ष्याशब्दस्य संप्रसारणं वत्वं च । अरदतम् । रद विलेखने । पुरंधिम् । पुरंधिर्बहुधीरिति यास्कः (नि ६-१३) पृषोदरादित्वात्पुरंधिभावः । यद्वा । पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयतेऽवस्थाप्यत इति पुरंधिर्बुद्दिः । कर्मण्यधिकरणे चेति दधातेः किप्रत्ययः । तत्पुरुषे कृति बहुलमिति बहुलवचनादलुक् । इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव । असिंचितम् । षिचिर् क्षरणे । तौदादिकः । शे मुचादीनामिति नुम् ॥ ७ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः