मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् ११

संहिता

तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥

पदपाठः

तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् ।
यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥

सायणभाष्यम्

अत्रेदमाख्यानम् । वंदनो नाम कश्चिदृषिः । स चासुरैः कूपे निखात उत्तरीतुमशक्नुवन्नश्विनावस्तौत् । तमश्विनौ कूपादुन्निन्यतुरिति । तदाह । नरारो ग्यस्य नेतारौ हे नासत्यावश्विनौ वां युवयोः संबंध्यभिष्टिमदभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यं तथा वरूथं वरणीयं कामयितव्यं तत्कर्म शंस्यम् । अस्माभिः प्रशंसनीयम् । राध्यम् । आराधनीयं च । किं पुनस्तत्कर्म । विद्वांसा जानंतौ युवां निधिमिव निक्षिप्तं धनमिवापगूळ्हमरण्ये निर्जने देशे कूपमध्येऽसुरैर्निगूढं वंदनाय वंदनमृषिं दर्शतादध्वगैः पिपासुभिर्द्रष्टव्यात्कूपादुदूपथुः । उदहार्ष्टम् । एवं यदेतत्कूपादुद्धरणं तदित्यर्थः ॥ शंस्यम् । शन्सु स्तुतौ । अस्माण्ण्यंतादचो यदिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अभिष्टिमत् । अभिपूर्वादिष गतावित्यस्माद्भावे क्तिन् । मंत्रे वृषेति क्विन उदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । शंकध्वादित्वात्पररूपत्वम् । तादौ चेति तु गतिस्वरस्य सर्वविधीनां छंदसि विकल्पितत्वादप्रवृत्तिः । ततो मतुप् । अंतोदात्तादुत्तरस्य तस्य ह्रस्वनुड्भ्यामित्यदात्तत्वम् । वरूथम् । जॄवृञ्भ्यामूथन् (उ २-६) विद्वांसा । सुपां सुलुगिति विभक्तेराकारः । अपगूळ्हम् । गुहू संवरणे । कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । ढत्वधत्वष्टुत्वढ्रलोपदीर्घाः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । दर्शतात् । भृमृदृशीत्यादिनातच् । ऊपथुः । डुवप् बीजतंतुसंताने । लिट्यथुसि यजादित्वात्संप्रसारणम् । द्विर्वचनादि । वंदनाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी ॥ ११ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०