मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १२

संहिता

तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥

पदपाठः

तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । त॒न्य॒तुः । न । वृ॒ष्टिम् ।
द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥

सायणभाष्यम्

अत्रेयमाख्यायिका । इंद्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्य यदीमामन्यस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच । ततोऽश्विनावश्वस्य शिरश्छित्त्वा दधीचः शिरः प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम् । तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास । तदिंद्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायनवाजसनेययोः प्रपंचेनोक्तम् । तदेतत्प्रतिपाद्यते । हे नरा नरावश्विनौ वां युवयोः संबंध्युग्रमुद्गूर्णमन्यैर्दुशकं दंसः । कर्मनामैतत् । युवाभ्यां पुरा कृतं तत्कर्म सनये धनलाभार्थमाविष्कृणोमि । प्रकटीकरोमि । तत्र दृष्टांतः । तन्यतुर्न । यथा मेघस्थः शब्दो वृष्टिं मेघांतर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत् । किं तत्कर्म । अथर्वणः पुत्रो दध्यङ् एत्संज्ञ ऋषिरश्वस्य शीर्ष्णा युष्मत्समर्थ्येन प्रतिहितेन शिरसा वां युवाभ्यामीमिमां मधुविद्यां यद्ध यदा खलु प्रोवाच प्रोक्तवान् । तदानीमश्वस्य शिरसः संधानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसंधानलक्षणं च यद्भवदीयं कर्म तदाविष्कृणोमीत्यर्थः ॥ सनये । षणु दाने । खनिकषिकस्यंज्यसिवसिध्वनिस्तनिवनिसनिग्रंथिचरिभ्यश्चेतीप्रत्ययः । तन्यतुः । तनु विस्तारे । ऋतन्यंजीत्यादिना यतुच् । यद्वा । स्तन शब्दे । बाहुलकाद्यतुच् । छांदसः सलोपः । वृष्टिम् । वृष्यते सिच्यतेऽनेनेति वृष्टिः । मंत्रे वृषेत्यादिना क्तिन उदात्तत्वम् । आथर्वणः । अपत्यार्थेऽण्यन् (पा ६-४-१६७) इति प्रकृतिभावाट्वलोपाभावः । शीर्ष्णा । शीर्षन् छंदसि (पा ६-१-६०) इति शिरःशब्दपर्यायः शीर्षन् शब्दोंऽतोदात्तो निपात्यते । अल्लोपे सत्युदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वं ॥ १२ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०