मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १४

संहिता

आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥

पदपाठः

आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।
उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥

सायणभाष्यम्

वर्तिका चटकसदृशस्य पक्षिणः स्त्री । तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किलाश्विनावमोचयताम् । तदेतदाह । हे नरा नेतारौ नासत्यावश्विनौ युवं युवामभीकेऽभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुन आस्न आस्याद्वर्तिकां चटकसदृशीममुमुक्तम् । अमोचयतम् । यास्कस्त्वाह । पुनः पुनर्वर्तते प्रतिदिवसमावर्तत इति वर्तिकोषाः । तां वृकेणावरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुंचतामिति । उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवंतं कविं एतत्संज्ञमंधमृषिं विचक्षे विशेषेण द्रष्टुम् । समर्थमकृणुतम् । आकुरुतं ॥ आस्नः । पद्दन्नित्यादिनास्यस्यासन्नादेशः । अल्लोपोऽन इत्यकारलोप उदात्तनिवृत्तिस्वरेणोडिदमिति विभक्तेरुदात्तत्वम् । अमुमुक्तम् । मुचेरंतर्भावितण्यर्थाल्लङि बहुलं छंदसीति विकरणस्य श्लुः । कृपिः । स्तुतिकर्मा तुदादिषु द्रष्टव्यः विकरणस्वरे प्राप्ते । वृषादीनां चेत्याद्युदात्तत्वम् । विचक्षे । तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति सलोपः ॥ १४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०