मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् १५

संहिता

च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥

पदपाठः

च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् ।
स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥

सायणभाष्यम्

अगस्त्यपुरोहितः खेलो नाम राजा । तस्य संबंधिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादासीत् । पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्यायोमयं पादं समधत्ताम् । तदेतदाह । आजा आजौ संग्रामेऽगस्त्य पुरोहितस्य खेलस्य संबंधिन्या विश्पलाख्यायाश्चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिवाच्छेदि हि । पुरा छिन्नमभूत्खलु । हे अश्विनौ युवामगस्त्येन स्तुतौ संतौ परितक्म्यायाम् । परितक्म्या रात्रिः परित एनां तकतीति यास्कः । नि ११-२५ । एनामुभयतः सूर्यो गच्छतीति तस्यार्थः । रात्रावागत्य सद्यस्तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गंतुं विश्पलाया आयसीमयोमयीं जंघां जंघोपलक्षितं पादं प्रत्यधत्तम् । संधानमेकीकरणं कृत । वंतावित्यर्थः ॥ चरित्रम् । अर्तिलूधूसूखनसहचर इत्र इति करण इत्रः । आजा । सुपां सुलुगिति विभक्तेर्डादेशः । आयसीम् । अयःशब्दाद्विकारार्थे प्राणिरजतादिभ्योऽञ् पा ४-३-१५४ । टड्ढाणञिति ङीप् ॥ १५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०