मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २०

संहिता

परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥

पदपाठः

परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥

सायणभाष्यम्

जाहुषो नाम कश्चिद्राजा । विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्या वश्विनावजरयू जरारहितौ नित्यतरुणौ युवां विभिंदुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गंतुं शक्यै रजोभी रंजकैर्मार्गैरूहथुः । तस्माच्छत्रुसमूहान्निरगमयतम् । सीमित्येतत्पादपूरणम् । निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलो च्चयान्व्ययातम् । विशेषेणागच्छतं ॥ परिविष्टम् । विश प्रवेशने । कर्मणि निष्ठा । गतिरनंतर इति गतेः । प्रकृतिस्वरत्वम् । सुगेभिः सुदुरोरधिकरण इति गमेर्डः । विभिंदुना । भिदिर् विदारणे औणादिक उप्रत्ययो नुमागमश्च । अजरयू न जरा अजरा । तामात्मन इच्छतः सुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्य दीर्घः । योर्निषेधः क्याच्छंदसीत्युप्रत्ययः ॥ २० ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११