मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २१

संहिता

एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥

पदपाठः

एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥

सायणभाष्यम्

हे अश्विनौ वशमेतत्संज्ञमृषिमेकस्या वस्तोरेकस्याह्नो रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभायावतम् । अरक्षतम् । स ऋषिः प्रत्यहं यधा सहस्रसंख्यं धनं लभते तथा रक्षितवंतावित्यर्थः , । अपि च हे वृषणौ कामानां वर्षितारावश्विनौ । इंद्रवंता इंद्रेण संयुक्तौ युवां दुच्छाना दुष्टसुखान्दुःखस्य कर्तॄन् पृथुश्रवसो विस्तीर्णयशसोऽरातीः शत्रून्नि रहतम् । निःशेषेणावधिष्टम् । यद्वा । कानीनस्य पृथुश्रवः संज्ञ स्य राज्ञः शत्रूनिति योज्यं ॥ सहस्रा । सुपां सुलुगिति चतुर्थ्या डादेशः । अहतम् । लङि थसस्तम् । अनुदात्तोपदेशेत्यादिनानुसिकलोपः । दुच्छुनाः । शुनिमिति सुखनाम । दुष्टं सुखं यासां तास्तथोक्ताः । परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वं ॥ २१ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२