मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २२

संहिता

श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथु॒ः पात॑वे॒ वाः ।
श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥

पदपाठः

श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वारिति॒ वाः ।
श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥

सायणभाष्यम्

अर्चत्कस्य ऋचत्कपुत्रस्य शरस्मैतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचान्नीचीनादवतात्कूपादुच्चा उच्च्वॆरुपरिष्ठाद्वारुदकं हे अश्विनौ युवामा चक्रथुः । आभिमुख्येन कृतवंतौ । तथा हे नासत्यावश्विनौ शचीभिर्युष्मदीयैः कर्मभिः परिचरणैर्जसुरये श्रांताय शयवे चित् शयुनाम्न ऋषये स्तर्यं निवृत्तप्रसवां गामग्नि होत्रार्थस्य पयसो दोग्ध्रिं पिप्युथुः । पयसा युवामापूरितवंतौ ॥ पातवे । पा पाने । तुमर्थेसेसेनिति तवेन्प्रत्ययः । जसुरये । जसु हिंसायाम् । जसिसहोरुरिन् (उ २-७३) स्तर्यम् । स्तीर्यत आच्छाद्यते प्रसवसामर्थ्याभावेनेति स्तरीः । अवितॄस्तृतंत्रिभ्य ईः (उ ३-१५८) इतीकारप्रत्ययः । वा छंदसीत्यमि पूर्वत्वस्य विकल्पितत्वादभावे यणादेशः । उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । पिप्यथुः । प्यायी वृद्धौ । लिट व्यत्ययेन परस्मैपदम् । लिङ्यङोश्च (पा ६-१-२९) इति पीभावः ॥ २२ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२