मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २४

संहिता

दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः ।
विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथु॒ः सोम॑मिव स्रु॒वेण॑ ॥

पदपाठः

दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् । अ॒प्ऽसु । अ॒न्तरिति॑ ।
विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव । स्रु॒वेण॑ ॥

सायणभाष्यम्

पुरा खलु रेभमृषिं पाशैर्बद्ध्वासुराः कूपे कस्यचिद्दिवसस्य सायंकाले प्रचिक्षिपुः । स चाश्विनौ स्तुवन् दश रात्रीर्नवाहानि च कूपमध्ये तथैवावतस्थे । दशमेऽहनि प्रातरश्विनौ तं कूपादुदतारयतामिति । तदाह । अप्सु कूपांतर्वर्तमानास्वंतर्मध्येऽसुरैः पातितमशिवेन दुःखहेतुना दाम्नावनद्धं बद्धं श्नथितं शत्रुभिर्हिंसितं दश रात्रीर्दशसंख्याका निशा नव द्यून् नवसंख्याकान्यहानि च । अत्यंतसंयोगे द्वितीया । एतावंतं कालं तत्रैव कूपेऽवस्थितम् । आत एवोदन्युदके विप्रुतं विप्लुतं व्याक्षिप्तसर्वांगं प्रवृत्तम् । लुप्तोपमेतत् । प्रवृंजनेन संतप्तं घर्ममिव व्यथया संतप्यमानं एवंभूतं रेभं हे अश्विनौ युवामुन्निन्यथुः । तस्मात्कूपादुन्नीतमुत्तीर्णं कृतवंतौ । तत्र दृष्टांतः । सोममिव यथाग्नि होत्रहोमार्थमभिषुतं सोमरसं कूपसदृशेऽग्नि होत्रस्थालीमध्ये वर्तमानं स्रुवेणाध्वर्युरुन्नयत्यूर्ध्वं नयति तद्वत् ॥ अवनद्धम् । णह बंधने । कर्मणि निष्ठा । नहो धः (पा ८-२-३४) झषस्तथोर्धोऽध इति निष्ठातकारस्य धत्वम् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । श्नथितम् । श्नथ हिंसार्थः । निष्ठा । विप्रुतम् । प्रुङ् गतौ । अवनद्धवत्प्रत्ययस्वरौ । कपिलकादित्वाल्लत्वविकल्पः । उदनि । पद्दन्नित्यादिनोदकशब्दस्योदन्भावः ॥ २४ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२