मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११६, ऋक् २५

संहिता

प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पति॑ः स्यां सु॒गवः॑ सु॒वीरः॑ ।
उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥

पदपाठः

प्र । वा॒म् । दंसां॑सि । अ॒श्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ ।
उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥

सायणभाष्यम्

एवमनेन सूक्तेनाश्विनोर्महिमानं प्रशस्याधुना मंत्रद्रष्टा स्वाभीष्टं प्रार्थयते । हे अश्विनौ वां युवयोर्दंसांसि पुरा कृतानि कर्माणि प्रावोचम् । इत्थमुक्तवानस्मि । सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वास्य राष्ट्रस्य पतिरधिपतिः स्याम् । भवेयम् । उतापि च पश्यन्नक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सर्वैरिंद्रियैः स्वस्वविषयसमर्थैर्दीर्घं वर्षशतरूपेणायतमायुर्जीवितं चाश्नुवन्न प्राप्नुवन्नहमस्तमिव यथा गृहं स्वामीःनिष्कंटकं प्रविशति एवं जरिमाणं जरां जगम्याम् । कंटकराहित्येन प्राप्नुयाम् । वृद्धः संश्चिरकालं निवसेयमित्यर्थः ॥ स्याम् । अस्तेः प्रार्थनायां लिङ् । यासुट् । श्नसोरल्लोप इत्यकारलोपः । अश्नुवन् । अशू व्याप्तौ । व्यत्ययेन शतृ । जरिमाणम् । जॄष् वयोहानौ । अस्मादौणादिक इमनिच् । जगम्याम् । गमेः प्रार्थनायां लिङि बहुलं छंदसीति विकरणस्य श्लुः ॥ २५ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२