मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ११७, ऋक् १

संहिता

मध्व॒ः सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वाम् ।
ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजै॑ः ॥

पदपाठः

मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् ।
ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥

सायणभाष्यम्

मध्व इति पंचविंशत्यृचं द्वितीयं सूक्तम् । औशिजस्य कक्षीवत आर्षं त्रैष्टुभमाश्विनम् । मध्व इत्यनुक्रांतं ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तो विनियोगः ॥

हे अश्विनौ मध्वो मधुना माधुर्योपेतेन सोमस्य सोमेन मदाय युवयोर्मदार्थं प्रत्नश्चिरंतनो होता होमनिष्पादको यजमानो वां युवामा विवासते । विवासतिः परिचरणकर्मा । आङ् मर्यादायाम् । यथाशास्त्रं परिचरति । अपि च रातिर्दातव्यं हविर्बर्हिष्मत । आस्तीर्णेन बर्हिषा युक्तम् । युष्मदर्थं बर्हिष्यासादितमित्यर्थः । तथा गीः स्तुतिलक्षणावाक् च विश्रिता । ऋत्विक्षु समवेता । तैः स्तुतिरपि क्रियत इत्यर्थः । अतो हे नासत्यावश्विनौ इषास्मभ्यं दातव्येनान्नेन वाजैर्बलैश्च सह युवामुप यातम् । अस्मत्समीपं प्राप्नुतं ॥ मध्वः । सुपां सुपो भवंतीति तृतीयार्थे षष्ठी । जसादिषु छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । मदाय । मदी हर्षे । मदोऽनुपसर्ग इत्यप् । रातिः । रा दाने । कर्मणि क्तिन् । मंत्रे वृषेषेत्यादिना तस्योदात्तत्वम् । विश्विता । श्रिञ् सेवायाम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः  १७
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३